वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: मित्रावरुणौ ऋषि: मेधातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

व꣡रु꣢णः प्रावि꣣ता꣡ भु꣢वन्मि꣣त्रो꣡ विश्वा꣢꣯भिरू꣣ति꣡भिः꣢ । क꣡र꣢तां नः सु꣣रा꣡ध꣢सः ॥७९५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः ॥७९५॥

मन्त्र उच्चारण
पद पाठ

व꣡रु꣢꣯णः । प्रा꣣विता꣢ । प्र꣣ । अविता꣢ । भु꣣वत् । मित्रः꣢ । मि꣢ । त्रः꣢ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । क꣡र꣢꣯ताम् । नः꣣ । सु꣡राध꣢सः । सु꣣ । रा꣡ध꣢꣯सः ॥७९५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 795 | (कौथोम) 2 » 1 » 7 » 3 | (रानायाणीय) 3 » 2 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में भी वही विषय है।

पदार्थान्वयभाषाः -

(वरुणः) शरीर में उदान और राष्ट्र में क्षत्रिय, (मित्रः) शरीर में प्राण और राष्ट्र में ब्राह्मण (विश्वाभिः) सब (ऊतिभिः) रक्षाओं से (प्राविता) हमारे प्रकृष्ट रूप से रक्षक (भुवत्) होवें। साथ ही (नः) हमें (सुराधसः) उत्तम धन से युक्त तथा उत्तम सिद्धिवाला (करताम्) करें ॥३॥

भावार्थभाषाः -

प्राण-उदान द्वारा शरीर में स्वास्थ्यरूप तथा योगसिद्धिरूप धन को और ब्राह्मण-क्षत्रिय द्वारा राष्ट्र में विद्या, चक्रवर्ती राज्य आदि धन को सब प्राप्त करें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

(वरुणः) शरीरे उदानः, राष्ट्रे क्षत्रियश्च (मित्रः) शरीरे प्राणः, राष्ट्रे ब्राह्मणश्च (विश्वाभिः) सर्वाभिः (ऊतिभिः) रक्षाभिः (प्राविता) अस्माकं प्रकर्षेण रक्षिता (भुवत्) भवतु। अपि च (नः) अस्मान् (सुराधसः२) सुधनान् सुसिद्धिमतश्च। [राधस् इति धननाम। निघं० २।१०। राध संसिद्धौ।] (करताम्) कुरुताम्। [डुकृञ् करणे, व्यत्ययेन शप्] ॥३॥३

भावार्थभाषाः -

प्राणोदानाभ्यां देहे स्वास्थ्यरूपं योगसिद्धिरूपं च धनं, ब्राह्मणक्षत्रियाभ्यां च राष्ट्रे विद्याचक्रवर्तिराज्यादिरूपं धनं सर्वे प्राप्नुवन्तु ॥३॥

टिप्पणी: १. ऋ० १।२३।६। २. सुराधसः शोभनानि विद्याचक्रवर्तिराज्यसंबन्धीनि राधांसि धनानि येषां तान्—इति ऋ० १।२३।६ भाष्ये द०। ३. एतमपि मन्त्रमृग्भाष्ये दयानन्दर्षिः सूर्यवायुपक्षे व्याचष्टे।